|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.26. अध्यायः 026
Mahabharata - Virata Parva - Chapter Topics
भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् ॥ 1 ॥ पश्चात्समागतेन कीचकेन भीमंप्रति द्रौपदी बुद्ध्या संस्पर्शनपूर्वकं संभाषणम् ॥ 2 ॥ भीमेन नियुद्धेन कीचकमारणम् ॥ 3 ॥ पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् ॥ 4 ॥
Mahabharata - Virata Parva - Chapter Text
भीम उवाच। 4-26-0x(3097)(29379)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ॥ 1 ॥ 4-26-1(29380)
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ 2 ॥ 4-26-2(29381)
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति।
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ॥ 3 ॥ 4-26-3(29382)
वैशम्पायन उवाच। 4-26-4x(3098)
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः।
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ॥ 4 ॥ 4-26-4(29383)
अवदातेन मृदुना पटेनाच्छादितस्तथा ।
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ॥ 5 ॥ 4-26-5(29384)
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् ।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ 6 ॥ 4-26-6(29385)
कीचकस्तु शिरःस्नातो निशायां समलंकृतः।
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ॥ 7 ॥ 4-26-7(29386)
तदेव नर्तनागारं पाञ्चाली यदभाषत।
तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ॥ 8 ॥ 4-26-8(29387)
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्।
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ॥ 9 ॥ 4-26-9(29388)
शयानं शयने तत्र मृत्युं मूढः परामृशत्।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ॥ 10 ॥ 4-26-10(29389)
एकान्ते भीममासाद्य कीचकः कालचोदितः।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ 11 ॥ 4-26-11(29390)
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते।
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ॥ 12 ॥ 4-26-12(29391)
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः।
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ॥ 13 ॥ 4-26-13(29392)
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः।
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः ।
रूपस्य तन्मया प्राप्तं फलं कमललोचने ॥ 14 ॥ 4-26-14(29393)
भीम उवाच। 4-26-15x(3099)
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि॥ 15 ॥ 4-26-15(29394)
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता।
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ॥ 16 ॥ 4-26-16(29395)
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ 17 ॥ 4-26-17(29396)
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥ 18 ॥ 4-26-18(29397)
वैशम्पायन उवाच। 4-26-19x(3100)
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥ 19 ॥ 4-26-19(29398)
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥ 20 ॥ 4-26-20(29399)
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥ 21 ॥ 4-26-21(29400)
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ 22 ॥ 4-26-22(29401)
गृहीत्वा कीचकं भीमो विरराज महाबलः।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ॥ 23 ॥ 4-26-23(29402)
स केशेषु परामृष्टो बलेन बलिनां वरः।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ 24 ॥ 4-26-24(29403)
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ॥ 25 ॥ 4-26-25(29404)
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 26 ॥ 4-26-26(29405)
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ॥ 27 ॥ 4-26-27(29406)
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ॥28 ॥ 4-26-28(29407)
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ॥ 29 ॥ 4-26-29(29408)
पातितो भीमसेनस्तु कीचकेन बलीयसा।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ 30 ॥ 4-26-30(29409)
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ॥ 31 ॥ 4-26-31(29410)
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम्।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ॥ 32 ॥ 4-26-32(29411)
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली।
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ॥ 33 ॥ 4-26-33(29412)
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः।
कीचको भीमसेनेन पश्चात्पश्चादहीयत ॥ 34 ॥ 4-26-34(29413)
तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ॥ 35 ॥ 4-26-35(29414)
क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ॥ 36 ॥ 4-26-36(29415)
गृहीत्वा कीचकं भीमो विरराज महाबलः ।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ॥ 37 ॥ 4-26-37(29416)
पुनश्चातिबलस्तत्र कीचको बलदर्पितः ।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ॥ 38 ॥ 4-26-38(29417)
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम्।
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ॥ 39 ॥ 4-26-39(29418)
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् ।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ॥ 40 ॥ 4-26-40(29419)
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ॥ 41 ॥ 4-26-41(29420)
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली।
कष्णायै दर्शयामास भीमसेनो महाबलः ॥ 42 ॥ 4-26-42(29421)
उवाच च महातेजा द्रौपदीं योषितां वराम्।
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम्।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ॥ 43 ॥ 4-26-43(29422)
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् ।
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा।
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ॥ 44 ॥ 4-26-44(29423)
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा।
विज्ञापनार्थमन्येषां विरराम महाहवम् ॥ 45 ॥ 4-26-45(29424)
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम्।
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ॥ 46 ॥ 4-26-46(29425)
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम्।
सुखोपविष्टः शयने भीमो भीमपराक्रमः ॥ 47 ॥ 4-26-47(29426)
ततः कृष्णा यदा मेने गतं भीमं महानसम् ।
कीचकं घातयित्वा च द्रौपदी योषितां वरा।
प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ॥ 48 ॥ 4-26-48(29427)
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम।
परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ॥ 49 ॥ 4-26-49(29428)
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ॥ 50 ॥ 4-26-50(29429)
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः।
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम्।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ 51 ॥ 4-26-51(29430)
पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ॥ 52 ॥ 4-26-52(29431)
क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् ।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ॥ 53 ॥ 4-26-53(29432)
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् ।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ॥ 54 ॥ ॥ 4-26-54(29433)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|